२१५

प्र व इन्द्रा य मादनमिति मद्वतीर्भवन्ति ।

रसो वै मदः ।

धीतेवैषा यद्रा त्रिः पीडितेव ।

नाभिषुन्वन्ति ।

यदेवादस्तृतीयसवनादृजीषमतिरेचयन्ति तेनास्यां चरन्ति ।

तद्यदेता मद्वतीर्भवन्ति रसमेवास्यामेतद्दधति ।

आइवैनामेतेन प्याययन्ति ।

तासु शाक्त्यम् ।

शाक्त्येन वै शाक्त्याः पशूनवारुन्धत ।

तच्छाक्त्यस्य शाक्त्यत्वम् ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।

शाक्त्या अन्नाद्यकामास्तपोऽतप्यन्त ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै तेऽन्नाद्यमरुन्धत ।

तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम् ।

अन्नं वै गौरीवितम् ।

अन्नमु वै श्वस्तनम् ।

अन्नमु ह वा इदं सर्वमतिरिरिचे ।

अतिरिक्तेवैषा यद्रा त्रिः ।

अतिरिक्तं रात्र्यामन्नाद्यं दधति ।

तत्स्वारं भवति ।

प्राणो वै स्वरः ।

अन्नमु वै प्राणाः ।

तदेतदभिपूर्वस्यैवान्नाद्यस्यावरुद्धिः साम ।

अवान्नाद्यं रुन्द्धेऽन्नादः श्रेष्ठः स्वानां भवति य एवं वेद ।

यदु शाक्त्या अपश्यंस्तस्माच्छाक्त्यमित्याख्यायते २१५