२१४

पान्तमा वो अन्धसः इत्यन्धस्वतीर्भवन्ति ।

अहर्वा अन्धो रात्रिः पान्तम् ।

अहोरात्रयोरेव सन्तत्या अहोरात्रयोः समारम्भाय ।

तास्वोकोनिधनं वैतहव्यम् ।

ओकोनिधनेन वै वैतहव्येन देवा असुरानोकस ओकसोऽनुदन्त ।

ओकस ओकस एव द्विषन्तं भ्रातृव्यं नुदते य एवं वेद ।

प्राणा ह खलु वा ओकः ।

प्राणानेवैतद्द्विषतो भ्रातृव्यस्य वृङ्क्ते प्राणानात्मन्धत्ते ।

तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते येऽतिरात्रमुपयन्तीति ।

तद्यदोकोनिधनं भवति अयं वै लोकः पुरुषस्यौकः अस्मिन्नेवैतल्लोके प्रतितिष्ठति ।

वीतहव्य आश्रायसो ज्योगपरुद्धश्चरन्सोऽकामयताव स्व ओकसि गच्छेयमिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स ओकाः इत्येव निधनमुपैत् ।

ततो वै सोऽव स्व ओकस्यगच्छत् ।

एतत्कामसनि साम ।

एतं वै स काममकामयत ।

सोऽस्मै कामः समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।

यदु श्रीरेव राज्यं वै स तदगच्छत् ।

अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।

यदु वीतहव्य आश्रायसोऽपश्यत्तस्माद् ओकोनिधनं वैतहव्यं इत्याख्यायते २१४