अथैष राथन्तरः सन्धिर्भवति ।
प्रजापतिरुषसं स्वां दुहितरं बृहस्पतये प्रायच्छत् ।
तस्या एतत्सहस्रमाश्विनं वहतुमन्वाकरोत् ।
स देवानब्रवीदियमेव मम युष्माकमेतदितरदिति ।
तस्माद्यदानृशंसो जायां विन्दते व्येव वहतुमादिशति ।
ते देवा अब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवन्नाजिमस्यायामेति ।
त आजिमायन् ।
अग्नेः प्रथमो रथ आसीदथोषसोऽथाश्विनोः ।
तावश्विनावश्वी अश्व्यामाश्वश्व्यमत्यकुरुताम् ।
तौ देवा अब्रुवन्वारोऽयं वामथ नः सहास्त्विति ।
तस्मान्नानादेवत्यासु स्तुवन्ति ।
अथाश्विनमित्य् एवाख्यायते ।
अग्नये प्रथमाय स्तुवन्त्यथोषसेऽथाश्विभ्याम् ।
एवं ह्येषामेता उज्जितयः ।
एकं साम द्वे छन्दसी ।
द्विपदमेव तच्चतुष्पत्सु पशुष्वध्यूहति ।
तस्माद्द्विपाच्चतुष्पदः पशूनधितिष्ठति ।
अनुदिते सूर्ये परिदध्याद्यं कामयेत पापीयान्स्यादिति ।
पापीयानेव भवति ।
व्युषिते परिदध्याद्यं कामयेत नार्वाङ्न परः स्यादिति नैवार्वाङ्न परो भवति ।
बहुवर्षी ह तु पर्जन्यो भवति ।
उदिते परुदध्याद्यं कामयेत श्रेयान्स्याद्रुचमश्नुवीतेति ।
श्रेयानेव भवति रुचमश्नुते २१३