२१२

अहोरात्राभ्यां वै देवा असुरान्निर्हत्य तांस्त्रिवृतैव वज्रेणाभिन्यदधुः ।

इमे वै लोकास्त्रिवृतः ।

एभिरेवैनांस्तल्लोकैरभिन्यदधुः ।

तस्मादाहुर्नैव तावदसुरा अन्वाभवितारो यावदिमे लोका भवितार इति ।

एभिर्हि लोकैरभिनिहिताःएषा वा अग्निष्टोमस्य च संवत्सरस्य च सम्मा यद्रा त्रिः ।

चतुर्विंशत्यर्धमासः संवत्सरश्चतुर्विंशति रात्र्या उक्थामदानि ।

त्रीणि सवनानि त्रयः पर्यायाः ।

रात्रिमेव तत्त्रिषवणां कुर्वन्ति ।

अथो एनां तदह्न इव समुत्कल्पयन्ति ।

अहोरात्रे देवा अभिजित्य तेऽमुमादित्यं सवनैरेव प्रत्यञ्चमनयन् ।

तं पर्यायैः पुनः प्राञ्चम् ।

तमाश्विनेन पुरस्तादुदस्तभ्नुवन् ।

तस्मादाहुर्नोदिते सूर्य आश्विनमनुशस्यमिति ।

वि हैनं गमयन्ति ।

स य एतदेवं वेद नीतोऽस्य सवनैरसावादित्यः प्रत्यङ्भवत्यानीतः पुनः पर्यायैः प्राङुत्तब्धः पुरस्तादाश्विनेन ।

उभे अस्याहोरात्रे स्पृते अवरुद्धे भवतो भोगायास्मा आदित्यः केतूंश्चरति २१२