२११

अहोरात्रयोर्वै देवासुरा अधिसंयत्ता आसन् ।

ते देवा अहरभ्यजयन् ।

अथासुरा ऋचं च रात्रिं च प्राविशन् ।

ते देवा अब्रुवन्नर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिमभिजयेम रत्नैरन्वभ्यवायामेति ।

तव छन्दसेत्यग्निमब्रुवन् ।

तव स्तोमेनेतीन्द्र म् ।

तव सम्पदेति प्रजापतिम् ।

युष्माकमायतनेनेति विश्वान्देवान् ।

यदग्निमब्रुवंस्तव छन्दसेति तस्माद्गायत्रीषु स्तुवन्ति ।

यदिन्द्र मब्रुवंस्तव स्तोमेनेति तस्मात्पञ्चदशस्तोमो रात्रेः ।

यत्प्रजापतिमब्रुवंस्तव सम्पदेति तस्मादनुष्टुभं सम्पद्यते ।

यद्विश्वान्देवानब्रुवन्युष्माकमायतनेनेति तस्माज्जगत्योऽनुशंस्यन्ते ।

तान्सन्धिनाभिपलायन्त आश्विनेनासंहेयमगमयन् ।

असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद २११