२१०

असुरेषु वा इदमग्र आसीत् ।

तद्देवा अभिजित्याब्रुवन्वीदं भजामहा इति ।

तस्य विभागे न समपादयन् ।

तेऽब्रुवन्नाजिमस्यायामेति ।

त आजिमायन् ।

अग्नेः प्रथमो रथ आसीदथोषसोऽथाश्विनोः ।

तावश्विनावश्वी अश्व्यामत्यकुरुताम् ।

तौ द्र वन्तावग्निः पर्युदतिष्ठत् ।

तावब्रूतामति नौ सृजस्वेति ।

नेत्यब्रवीदनु नु माभजतमिति ।

तृतीयं त इत्यब्रूतामावाभ्यां त्वेवाख्यायतादिति ।

तथेति तावत्यार्जत ।

तौ द्र वन्तावुषाः पर्युदतिष्ठत् ।

तावब्रूतामति नौ सृजस्वेति ।

नेत्यब्रवीदनु नु माभजतमिति ।

तृतीयं त इत्यब्रूतामावाभ्यां त्वेवाख्यायतादिति ।

तथेति तावत्यार्जत ।

तावुदजयताम् ।

स य एवमेतामश्विनोरुज्जितिं वेद यत्र कामयत उदिह जयेयमित्युत्तत्र जयति ।

य उ एवैतामग्नेश्चोषसश्चान्वाभक्तिं वेद यत्र कामयतेऽन्वाभक्त इह स्यामित्यन्वाभक्तस्तत्र भवति ।

तस्मान्नानादेवत्यासु संस्तुवन्ति ।

अथाश्विनमित्येवाख्यायते ।

वारेवृतं हि तत्तयोः २१०