२०९

शर्वरी वै नां रात्रिः ।

ते देवा अब्रुवन्नपि वै नः शर्वर्यां अभूदिति ।

तदेवापिशर्वराणामपिशर्वरत्वम् ।

अपि ह वा अस्य शर्वर्यां भवति य एवं वेद ।

असुरेषु वा इदमग्र आसीत् ।

तद्देवा अभिजित्याब्रुवन्केन न्वहोरात्रे उपरिष्टात्सन्दध्यामेति ।

त एतद्रा थन्तरं सन्धिमपश्यन् ।

तेनाहोरात्रे उपरिष्टात्समदधुः ।

यत्समदधुस्तत्सन्धेर्सन्धित्वम् ।

आश्विनं ह खलु वै सन्धेरुक्थम् ।

महति रात्रे सन्धिना स्तुवन्ति ।

आ सूर्यस्योदेतोराश्विनमनुशस्यतेऽहोरात्रयोरेव सन्तत्या अहोरात्रयोः समारम्भाय ।

अहोरात्रे देवा अभिजित्य ते वज्रमेव परिधिमकुर्वत पशूनां गुप्त्या असुराणामनभ्यवचाराय ।

तद्यदेता उष्णिहोऽन्ततः क्रियन्ते वज्रो वा उष्णिहो वज्रेणैव तत्पशून्परिगृह्णात्यपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद २०९