२०८

अह्नोऽसुरा नुत्ता रात्रिं प्राविशन् ।

ते देवा एतानि सामान्यपश्यन्नेतान्पर्यायान् ।

तैरेनानन्वभ्यवायन् ।

तान्पर्यायमघ्नन् ।

यत्पर्यायमघ्नंस्तत्पर्यायाणां पर्यायत्वम् ।

पर्यायमेव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद ।

ये प्रथमरात्रेण छन्ना आसंस्तान्प्रथमेन पर्यायेणाघ्नन् ।

यत्प्रथमस्य पर्यायस्य प्रथमानि पदानि पुनरादीनि भवन्ति ये प्रथमरात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।

ये मध्यरात्रेण छन्ना आसंस्तान्मध्यमेन पर्यायेणाघ्नन् ।

यन्मध्यमस्य पर्यायस्य मध्यमानि पदानि पुनरादीनि भवन्ति ये मध्यमरात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।

येऽपररात्रेण छन्ना आसंस्तानुत्तमेन पर्यायेणाघ्नन् ।

यदुत्तमस्य पर्यायस्युत्तमानि पदानि पुनरादीनि भवन्ति येऽपररात्रेण छन्ना भवन्ति तानेव तेन घ्नन्ति ।

पुनरभिघातं वावैनांस्तदघ्नन् ।

यथा वै हत्वा पुनर्हन्यात्तादृक्तत् ।

पुनरभिघातमेव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद २०८