एष वाव सर्वगो यज्ञो यदतिरात्रः ।
न वै रात्र्या ऋतेऽहर्न रात्रिरृतेऽह्नः ।
नैषां लोकानामेक एकः ।
अहोरात्रे वा इदं सर्वमिमे लोकाः ।
भूतं भव्यं प्रजनयतः ।
तदाहुर्न प्रथमं यजमानोऽतिरात्रेण यजेतेति ।
स्वं च ह्यतिमन्यते ।
द्वौ यज्ञक्रतू ।
ब्रह्म वा अग्निष्टोमः ।
ब्रह्म वै ब्राह्मणस्य स्वम् ।
अग्निष्टोमं च ह्यतिमन्यत उक्थं च षोडशिनम् ।
तदु वा आहुरग्निष्टोममात्रं वावाग्निष्टोमेनाभिजयत्युक्थमात्रमुक्थेन षोडशिमात्रं षोडशिना रात्र्या त्वाव सर्वमवरुन्द्ध इति ।
स यो हैवं विद्वानेकेन यज्ञक्रतुना चतुरो यज्ञक्रतून्सन्तनोत्यास्य चत्वारो विरा जयन्ते सर्वेषु पशुषु प्रतितिष्ठति २०७