२०६

अह्नोऽसुरा नुत्ता रात्रिं प्राविशन् ।

ते देवा एतमनुष्टुप्शीर्षाणं वज्रं समभरन् ।

तेनैनानभ्यवायन् ।

वाग्वा एषा ।

वाचा ज्योतिषान्वभ्यवायन् ।

विराड्वा एषा ।

विराजा ज्योतिषान्वभ्यवायन् ।

न वै सुयज्ञ इवातिरात्रः ।

तद्यत्पान्तं भवति तेनैव यज्ञः क्रियतेऽह्नश्च सुलभो रात्रेश्च सन्तत्या अव्यवच्छेदाय ।

यानि छन्दांस्यहर्वहन्ति तानि रात्रिं वहन्ति ।

एषा गायत्र्येषा विराडेषा ककुबेषानुष्टुप् ।

बृहतीषु स्तुवन्ति ।

तेन बृहतीभ्यो न यन्ति ।

तासां यद्द्वादशाक्सराणि पदानि तेन जगतीभ्यो न यन्ति ।

त्रिष्टुभा वषट्करोति ।

तेन त्रिष्टुब्भ्यो न यन्ति ।

तान्सन्धिनाभिपलायन्त आश्विनेनासंहेयमगमयन् ।

असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद ।

एषा वा अग्निष्टोमस्य सम्मा यद्रा त्रिः ।

द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश रात्रेः ।

एषा वा उक्थस्य सम्मा यद्रा त्रिः ।

त्रीण्युक्थानि त्रिदेवत्यः सन्धिः ।

एषा वा अग्निष्टोमस्य च संवत्सरस्य च सम्मा यद्रा त्रिः ।

द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासाः संवत्सरः ।

रात्र्या त्वाव त्रयोदशो मास आप्यते ।

एषा वै ब्रध्नस्य विष्टपं यद्रा त्रिः ।

गच्छति ब्रध्नस्य विष्टपं य एवं वेद २०६