२०५

प्र वो महे महेवृधे भरध्वमित्येता वै विराजः ।

अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न मान्या वागतिवदेदिति ।

वज्रो वै षोडशी वागनुष्टुप् ।

वज्रेणैव वाचं स्पृणोति नैनमन्या वागतिवदति ।

आ तिष्ठ वृत्रहन्रथमित्येता वा अनुष्टुभः ।

अथैतास्त्र्यक्षरा एकपदा भवन्ति ।

विष्णोश्छन्दो भूरिजश्शक्वर्य इति ।

एताभिर्वा इन्द्रो वृत्रमहन्नेताभिश्श्रियामाश्नुतौषमेव ।

द्विषन्तं भ्रातृव्यं हन्त्योषं श्रियमश्नुते य एवं वेद ।

हिरण्यं सम्प्रदायं षोडशिना स्तुवन्ति ।

षोडशुनमेव तज्ज्योतिष्मन्तं कुर्वन्ति ।

अश्व उपतिष्ठते साम्येक्ष्याय ।

भ्रातृव्यलोकं वावैषां तद्विधमंस्तिष्ठति ।

यस्माज्जातो न परोऽन्यो अस्ति य आ बभूव भुवनानि विश्वा

प्रजापतिः प्रजया संरराणस्त्रीणि ज्योतींषि सचते स षोडशी

इति षोडशिग्रहमवेक्षते ।

इन्द्र श्च सम्राड्वरुणश्च राजा तौ ते भक्षयां चक्रतुरग्र एतम्

तयोरहं भक्षमनुभक्षयामि वाग्जुषाणा सोमस्य तृप्यतु इति एकाक्षरं देवानामवममासीत्सप्ताक्षरं परमम् ।

नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।

ते देवा अकामयन्त कनीयसा भूयोऽसुराणां वृञ्जीमहीति ।

त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम् ।

अष्टाभिरेवाष्टौ ।

एवं कनीयसा ज्यायसो द्विषतो भ्रातृव्यस्य वृङ्क्ते य एवं वेद २०५