२०४

गौरीवितिर्वा एतच्छाक्त्योऽतिरिक्तं ब्रह्मणोऽपश्यत् ।

तद्गौरीवितमभवत् ।

अतिरिक्तं वा एतद्ब्रह्मणो यद्गौरीवितमतिरिक्तष्षोडशी स्तोत्राणाम् ।

यद्गौरीवितेन षोडशिना स्तुवन्त्यतिरिक्त एव तदतिरिक्तं दधति यज्ञस्य सलोमतायै ।

औपोदितिर्ह स्माह गौपालयो विशालं लिबुजयाभ्यधादनुष्टुभि नानदमकृद्गौरीवितेन षोडशिनमतुष्टुवन्न श्रिया अवपद्य इति ।

न ह वै श्रिया अवपद्यते य एवं वेद ।

तदु श्वस्तनवदपि प्रजाया उपक्ळ्प्तम् ।

शक्वरीषु षोडशिसाम कुर्वीत पशुकामः ।

वज्रो वै सोडशी पशवश्शक्वर्यः ।

वज्रेणैव पशुं स्पृणोति पशुमान्भवति ।

शक्वरीषु षोडशिसाम कुर्वीत यः कामयेत वज्री स्यामिति ।

वज्रो वै षोडशी वज्रश्शक्वर्यः ।

वज्रेणैव वज्रं स्पृणोति वज्री भवति ।

विराट्स्वन्नाद्यकामष्षोडशिसाम कुर्वीत ।

वज्रो वै षोडश्यन्नं विराट् ।

वज्रेणैवान्नाद्यं स्पृणोत्यत्त्यन्नमन्नादो भवति ।

तास्त्रयस्त्रिंशदक्षरा भवन्ति ।

ततो यान्येकविंशतिः प्रतिष्ठा सा ।

अथ यानि द्वादश प्रजननं तत् ।

प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य एवं वेद २०४