इन्द्र श्च वै बृहच्च समभवताम् ।
इन्द्रं बृहदेकया तन्वात्यरिच्यत ।
तस्या अबिभेदनयैव माभिभविष्यतीति ।
स देवानब्रवीत्षोडश्ययं यज्ञक्रतुरस्त्विति ।
तथेति ।
स षोडश्यभवत् ।
तत्षोडशिनो जन्म ।
अति श्रिया द्विषन्तं भ्रातृव्यं रिच्यते य एवं वेद गायत्रीषु द्विपदासु बृहता षोडशिना तुष्टुवानः ।
उप नो हरिभिस्सुतमित्येता वै गायत्र्यो द्विपदाः ।
इन्द्रो वै वृत्रमजिघांसत् ।
स प्रजापतिमुपाधावद्धनानि वृत्रमिति ।
तस्मा एतामपहरसमनुष्टुभं प्रायच्छत् ।
तया नास्तृणुत ।
स यदस्तृत्वा व्यनदत्तन्नानदमभवत् ।
तन्नानदस्य नानदत्वम् ।
तस्मादाहुर्नानदं षोडशिसामाकार्यं न हि तेनास्तृणुतेति ।
तं पुनरुपाधावद्धनान्येव वृत्रमिति ।
तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् ।
तिस्र एव होत्रायै ।
स एकविंशष्षोडशी समपद्यत ।
तेनो वृत्रमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं ये एवं वेद ।
एकविंशायतनो ह खलु वै षोडशी ।
सप्त वै होत्राः प्रातस्सवने वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने ।
अथो यदेवास्मै हरो निर्माय प्रायच्छत् २०३