२०२

तदाहुर्नोक्थ्ये षोडशी कार्य इति ।

पशवो वा उक्थानि वज्रष्षोडशी ।

वज्रं पशुषु विवर्तयेत् ।

अतिरात्र एव कार्यः ।

आपो वै सर्वस्य शान्तिः ।

अद्भिरेवैनत्तच्छमयन्ति ।

यद्यभिचरणीयस्सोमस्स्याद्धिरण्मयं वज्रं भृष्टिमन्तं कृत्वा यो य एव कर्म कुर्यात्तस्म तस्मा उपप्रवर्तयेत् ।

स स एवास्मै वज्रं प्रहरति स्तृत्यै ।

संस्थिते सोमे न्यञ्चं द्रो णकलशं पर्यस्य करम्भमयान्वा पुरुषान्कृत्वा हरितानां वा तृणानां तेषां नामग्रहं ग्रीवा अपिकृन्तेदिदमहममुष्य ग्रीवा अपिकृन्तामीदममुष्येदममुष्य इति ।

यावतामेव नामानि गृह्णाति तावतां ग्रीवा अपिकृन्तति तं ब्रह्मणे ददाति ।

ब्रह्म वै ब्रह्मा ।

ब्रह्म वज्रः ।

ब्रह्मण्येवैतद्वज्रं प्रतिष्ठापयति २०२