प्रष्टिरिव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
यद्वै प्रष्टिरनियुक्तो वहत्यप वा वै स छिनत्ति निर्वा मार्ष्टि ।
अन्त्येन स्तोत्रेण समस्तोमो भवति ।
स यथा प्रष्टिं प्रष्टियुगाय नियुञ्ज्यादेवमेवैतत्पूर्वेषु स्तोत्रेषु षोडशिनमनुनियुनक्त्यनिर्मार्गाय ।
अक्षीव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
अन्त्येन स्तोत्रेण समस्तोमो भवत्यनक्षितायै ।
जामीव ह खलु वा एतत्स्तोत्राणां यत्षोडशी ।
अन्त्येन स्तोत्रेण समस्तोमो भवत्यजामितायै ।
पशवो वा उक्थानि वज्रष्षोडशी ।
यदुक्थानामन्ततष्षोडशिना स्तुवन्ति वज्रेणैव तत्पशून्परिगृह्णन्त्यपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद २०१