इन्द्रं वै हरोऽत्यरिच्यत ।
स देवानब्रवीत्कथं मा हरो नातिरिच्येतेति ।
तं विश्वे देवा अब्रुवन्वयं त्वा हरिवता मन्त्रेण स्तोष्यामस्तथा त्वा हरो नातिरेक्ष्यत इति ।
तं विश्वे देवा हरिवता मन्त्रेणास्तुवन् ।
ततो वा इन्द्रं हरो नात्यरिच्यत ।
तद्यद्धरिवतीषु स्तुवन्ति इन्द्र मेवैतद्धरसा समर्धयन्ति ।
एषा ह खलु वै यजमानस्य नेदिष्ठं देवता यदिन्द्रः ।
तद्यद्धरिवतीषु स्तुव्नति यजमानमेव तद्धरसा तेजसा समर्धयन्ति ।
समस्मा ऋध्यते य एवं वेद २००