अधिकर्ण्या सोमं क्रीणन्ति ।
यथा ह वै कर्णे कर्णेऽधिरूढ एवं षोडशी स्तोत्राणाम् ।
सह वै षोडशिनं क्रीणीम इति वदन्तष्षोडशिनं क्रीनन्ति यदधिकर्णी सोमक्रयणी भवति ।
तेनैवैषां षोडशी क्रीतस्तेनावरुद्धः ।
अधिकर्ण्या सोमं क्रीणन्ति ।
सवनात्सवनात्सोममतिरेचयन्ति ।
जनद्वतीषु स्तुवन्ति ।
सर्वाणि रूपाण्यनुशास्यन्ते ।
यदधिकर्ण्या सोमं क्रीणन्ति यजमान एनं तेन प्रजनयति ।
यत्सवनात्सवनात्सोममतिरेचयन्त्यध्वर्युरेनं तेन प्रजनयति ।
यज्जनद्वतीषु स्तुवन्त्युद्गातैनं तेन प्रजनयति ।
यत्सर्वाणि रूपाण्यनुशास्यन्ते होतैनं तेन प्रजनयति ।
एतानि वै षोडशिनः प्रजननानि ।
प्र प्रजया पशुभिर्जायते य एवं वेद १९९