कनीयस्विन इव वै देवा आसन्भूयस्विनोऽसुराः ।
कनीयसा वै तेषां त्वेतद्भूयोऽवृञ्जत ।
तस्मात्कनीयान्ग्रामो ज्यायांसं ग्रामं प्रतिसंयतते ।
तस्मादु कनीयांसो भूयसोऽमित्राञ्जयन्ति ।
कनीयस्वी भूयस्विनं वृञ्जते य एवं वेद ।
एषा ह खलु वै प्रत्यक्षं पङ्क्तिर्यत्पञ्चाक्षरा पञ्चपदा ।
पङ्क्तिषु षोडशिना स्तुवन्ति ।
पुरुषच्छन्दसं वै पङ्क्तिः ।
यत्पाङ्क्तः पुरुषः पुरुषादेवैतदाप्तां वाचं निर्मिमते ।
तस्मात्पुरुषस्सर्वा वाचो वदति ।
आप्त इव वा एतर्हि सर्ववाक् ।
तद्यदनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीनुपधावयेत्तादृक्तत् ।
कनीयांसि छन्दांसि ज्यायस्सु छन्दस्स्वध्यूहन्ति ।
जितदेवत्यानि वा एतानि यत्कनीयांसि ।
तस्माज्ज्यायस्सु छन्दस्स्वध्यूहन्ति ।
एषां ह खलु वै छन्दसां वीर्यवत्तमा या त्र्यक्षरैकपदा ।
ताभिर्यच्छन्दांसि उपसृजन्ति वीर्यस्यैवावरुद्ध्यै ।
निधनमभ्यतिस्वरति ।
अह्नो वै देवा रात्रिमभ्यत्यक्रामन् ।
अभि भ्रातृव्यलोकं जयति य एवं वेद ।
भ्रातृव्यभाजनमिव ह्येषा यद्रा त्रिः १९८