१९७

एकाक्षरं देवानामवममासीत्सप्ताक्षरं परमम् ।

नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।

सप्ताक्षरं च नवाक्षरं च सन्निहिते आस्तामीद्र य्ञ्च्यन्यानि यत्तान्यासन्नीद्र य्ञ्च्यन्यानि ।

तान्प्रजापतिरानुष्टुभोऽन्तरा विक्रम्यातिष्ठत् ।

ते समीक्षमाणास्सञ्चाकशतोऽतिष्ठन्नन्योन्यस्य रन्ध्रमिच्छन्तः ।

ते देवाः प्रजापतिमुपाधावञ्जयामासुरानिति ।

तेभ्य एतं षोडशिनं वज्रं प्रायच्छत् ।

एतेनैषां छन्दोभिश्छन्दांसि संवृज्य मामुपसम्पादयथेति ।

त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरम् ।

सानुष्टुबभवत् ।

तां प्रजापतिमुपसमपादयन् ।

त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरम् ।

सानुष्टुबभवत् ।

तां प्रजापतिमुपसमपादयन् ।

पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरम् ।

सानुष्टुबभवत् ।

तां प्रजापतिमुपसमपादयन् ।

सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टौ ।

सानुष्टुबभवत् ।

तां प्रजापतिमुपसमपादयन् ।

तेषां छन्दोभिरेवं छन्दांसि संवृयासुरान्निरवाघ्नन् ।

तान्निरवहतान्दारान्यतः प्रजापतिरश्वोऽरुणपिशङ्गो भूत्वा पराप्रोथत् ।

त एत उदन्तेष्वधिगम्यन्त एकैक इव ।

ततो वै देवा अभवन्परासुराः ।

भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १९७