१९६

अहोरात्रयोर्वै देवासुरा अधि संयत्ता आसन् ।

ते देवा अहरभ्यजयन्नथासुरा रात्रिमभ्युपाधावन् ।

ते देवा अब्रुवन्नर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिमभिजयेमाभिप्रयुनजामहा इति ।

तेऽभ्ययुञ्जत ।

अह्नो जघनार्धेऽयतन्त ।

अथासुरा रात्र्या उदासृत्य पूर्वार्धेऽयतन्त ।

एष ह वा अह्नो जघनार्धो यत्सायम् ।

एष उ वै रात्रेः पूर्वार्धो यत्सायम् ।

स्वायामन्ये मर्यादायामयतन्त स्वायामन्ये ।

छन्दांसि वाव तेषां स्वमासीत् ।

छन्दस्स्वधि संयत्ता आसन् १९६