१९५

तदाहुस्त्रिवृदेव स्तोमः कार्य इति ।

स त्रिवृद्वै वज्रः ।

वज्रष्षोडशी ।

अथो आहुष्पञ्चदश एव कार्य इति ।

पञ्चदशो वै वज्रः ।

वज्रष्षोडशी ।

अथो आहुष्षोडश एव कार्य इति ।

पञ्चदशो वै वज्रः ।

इन्द्रो वज्रस्योद्यन्ता षोडशः ।

सेन्द्रे ण वज्रेण वृत्रं पाप्मानं हनानीति ।

सेन्द्रे ण हैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।

अथो आहुस्सप्तदश एव कार्य इति ।

पञ्चदशो वै वज्रः ।

इन्द्रो वज्रस्योद्यन्ता षोडशः ।

प्रजापतिरेव सप्तदशः ।

सोऽनुष्ठाता सोऽभिगोप्ता सोऽभिवादयिता प्रहर्जहि मापक्रमीः इति ।

सेन्द्रे ण वज्रेण सप्रजापतिकेन वृत्रं पाप्मानं हनानीति ।

सेन्द्रे ण हैव वज्रेण सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद ।

अथो आहुरेकविंश एव कार्य इति ।

सर्वाभ्यो वा एतं सप्तभ्यो होत्राभ्य इन्द्रो वज्रं निरमिमीत तिस्रस्तिस्र एव होत्रायै ।

स एकविंशष्षोडशी समपद्यत ।

तेनेन्द्रो वृत्रमहन् ।

हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

तदु होवाच यामनो भ्रातलायनो विराजो वा एष सम्पदे षोडशी ।

वैराजो वै षोडशी विराजिविराजि प्रतिष्ठितः ।

स यत्रैवैतं विराजं सम्पद्यमानं मन्येत तदेवैतेन स्तोतव्यम् १९५