१९३

एकाक्षरं देवानाअवममासीत्सप्ताक्षरं परमम् ।

नवाक्षरमसुराणामवममासीत्पञ्चदशाक्षरं परमम् ।

ते देवा अकामयन्त कनीयसा भूयोऽसुराणां वृञ्जीमहीति ।

त एकाक्षरेण पञ्चदशाक्षरमवृञ्जत ।

ते द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरमष्टाक्षरेणाष्टौ ।

तानि यत्षोडशषोडश समपद्यन्त तत्षोडशिनष्षोडशित्वम् ।

तद्गायत्र्येव सप्तदश्युपसमपद्यत ।

तस्मादाहुस्सप्तदशः प्रजापतिरिति ।

इन्द्रो वै वृत्रमजिघांसत् ।

स प्रजापतिमुपाधावद्धनानि वृत्रमिति ।

तस्मा एतं षोडशिनं वज्रं प्रायच्छद्यदस्य वीर्यमासीत्तदादाय शक्वर्यः ।

तं नाशक्नोद्धन्तुम् ।

तं पुनरुपाधावद्धनान्येव वृत्रमिति १९३