नार्मेधमेव कार्यम् ।
तदैळं भवति ।
पशवो वा इळा ।
पशुभिर्वाव ते तान्रात्रेर्निरवाघ्नन् ।
तस्मान्नार्मेधमेव कार्यमिति ।
आष्टादंष्ट्रे ऋद्धिकामः कुर्वीत ।
अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत् ।
सोऽबिभेदस्तोत्रीये मे सामनी भविष्यत इति ।
सोऽब्रवीदृध्नवात्स यो मे सामनी सोमस्य तर्पयादिति ।
ऋद्धिप्रागुभिते वा एते सामनी ।
ऋध्नुवन्त्येवैताभ्यां तुष्टुवानाः ।
अष्टादंष्ट्रो वैरूपः पशुकामस्तपोऽतप्यत ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
स एतामिळां उपैत् ।
पशवो वा इळा ।
ततो वै स पशूनवारुन्द्ध ।
ते एते पशव्ये सामनी ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यद्वष्टादंष्ट्रो वैरूपोऽपश्यत्तस्मादाष्टादंष्ट्रे इत्याख्यायेते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठति १९१