१९०

सर्वो ह खलु वै षोडशिमान् ।

यत्रोद्वंशीयं क्रियते उत्तमं पदं पुनरभ्यस्यति ।

षोडश्येव तेन रूपेण क्रियते ।

वज्रो वै भ्रातृव्याय षोडशी ।

वज्रमेवैतद्द्विषते भ्रातृव्याय प्रहरति स्तृत्यै ।

तमो वै देवासुरानन्तरासीत् ।

ते देवा एतमर्धेळं धूयधरा अतिक्षरन्ति ।

अपश्यन् ।

तेनैनद्व्यायन् ।

यं द्विष्यात्तं मनसा ध्यायेत् ।

एतमर्धेळमुपावयन्व्येवैनमेत्य् ।

अध्यर्धेळं स्वरति ।

तस्माद्धूयार्धरा अतिक्षरन्ति ।

अषाढो ह सावयसोऽतिरात्रेणेजे ।

तदु हातिधन्वश्शौनकः प्रसृप्त । आस ।

स होद्वंशीयमतिरात्रे छावाकसाम चक्रे ।

तं होवाच मैवं कुरुत ।

प्रलुप्तेळाः स्वरः परस्तादप्रतिष्ठितः पारिचर्यस्य रूपमिति ।

स होवाच तां वै वयं कृत्स्नामिळामुपेत्य स्वरेणैव सन्तत्य रात्रिं प्रवत्स्यामहा इति ।

नेति हेतर उवाच ।

इन्द्रो वाव तेन साम्नासुरानन्वभ्यवैत् ।

ते बलं स्वरं विदित्वा प्रत्याद्र वन् ।

तं प्राकुर्वत ।

स प्रकृत एतमर्धेळं न्यहन् ।

त्राणाय वा एष यदर्धेळ । इति १९०