क्षेपीयसी ह खलु वै रात्रिरह्नः ।
एहीळं भवत्यप्रवर्हाय ।
यदृचश्च साम्नश्चात्यरिच्यत तदुद्वंशीयमभवत् ।
स हर्चा च साम्ना च प्रतितिष्ठति य एवं वेद ।
तदनृशंसस्य कुर्यान्न नृशंसस्य परिमितजीवी हि नृशंसोऽतिरिक्तजीव्यनृशंसः अतिरिक्तस्यैवावरुद्ध्यै ।
अथ ह वा एतेन देवास्साम्ना वंशमिवोद्यत्यासुरानभ्यत्यक्रामन् ।
यद्वंशमिवोद्यत्यासुरानभ्यत्यक्रामंस्तदुद्वंशीयमभवत् ।
तदुद्वंशीयस्योद्वंशीयत्वम् ।
अभ्यजितं जयति न जितं पराजयते य एवं वेद ।
सर्वेषां वा एतत्पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति गायत्रस्य अर्चन्त्यर्कमर्कायिणा इति रथन्तरस्य ब्रह्माणस्त्वा होयि शतक्रताविति बृहतः उद्वंशमिव यायिमिरायि इति वैरूपस्य उद्वंशामि इति पुनर्नितुन्नं वैराजस्य वा या वु वा उबिति महानाम्नीनां मा इरा इति रेवतीनां हा इ इति वामदेवस्य ।
सर्वस्मिन्नेवैतत्पृष्ठरूपे रसे तेजस्यपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति १८९