१८८

नार्मेधेनातिरात्रेऽच्छावाकाय स्तुवन्ति ।

इळया रात्रिमभिसन्तन्वन्ति ।

तदाहुर्यन्ति वा एतेऽनुष्टुभो य उष्णिक्ष्वच्छावाकसाम कुर्वन्तीति ।

अर्वागुष्णिग्घ खलु वा एतासामेका मध्योष्णिगेका पुरोष्णिगेकानवधृतं छन्दोऽनवधृतं वाग्वदति ।

वागनुष्टुप् ।

तेनानुष्टुभो न यन्ति ।

यैतासामुत्तमा सा प्रत्यक्षानुष्टुप् ।

तेनो वावानुष्टुभो न यन्ति ।

यथा ह वा इदं मधुकृतः पुष्पाणां रसान्सम्भरन्त्येवं ह वा एता देवताश्छन्दसां रसान्समभरन् ।

छन्दसां हास्य रसेन स्तुतं भवति य एवं वेद ।

अहोरात्रयोर्ह खलु वा एतद्रू पं साम ।

षन्द्री रृच आग्नेयं साम ।

षन्द्र महराग्नेयी रात्रिः ।

यो ह वा एतस्मात्साम्नोऽतिरात्र इयादहोरात्रयोर्ह वै स रूपेण विवृह्येत ।

स य एनं तत्र ब्रूयादहोरात्रयोरेनं रूपेण व्यवृक्षदिति तथा हैव स्यात् ।

तस्मादु हैतस्मात्साम्नोऽतिरात्रे नैतव्यम् १८८