१८७

सौभरं ब्रह्मसाम कुर्वीत यः कामयेता मे प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपः पुरुषरूपो जायेतेति ।

तेजो वै पुरुषस्य प्रजा तेजस्सौभरं बृहतः ।

क्षत्रं बृहत् ।

क्षत्रियस्यो एषा प्रजा ।

आ हैवास्य प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायते य एवं वेद ।

प्रजापतिः प्रजा असृजत ।

ता अस्य सृष्टाः पराभवन् ।

तदिदं सरीसृपमभवद्यदन्यत्सर्पेभ्यः ।

स द्वितीय असृजत ।

ता अस्य परैवाभवन् ।

ते मत्स्या अभवन् ।

स तृतीया असृजत ।

ता अस्य परैवाभवन् ।

तानि वयांस्यभवन् ।

स चतुर्थीरसृजत ।

स षक्षत कथं नु म इमाः प्रजास्सृष्टा न पराभवेयुरिति ।

स एतत्सामापश्यत् ।

तेनैना ऊर्गित्येवाभ्यमृशत् ।

ता अस्योर्जा समक्ता अवर्धन्त ।

सोऽब्रवीत्सुभृतं वा इमाः प्रजा अभार्षमिति ।

तदेव सौभरस्य सौभरत्वम् ।

सुभृतं प्रजां बिभर्ति य एवं वेद १८७