१८४

त्रैतं नाथकामः कुर्वीत ।

आप्त्यान्सातेन यतोऽरण्ये पिपासाविन्दत् ।

ते धन्वन्कूपमविन्दन् ।

तन्नैकतोऽवरोढुमकामयत न द्वितः ।

तत्त्रितोऽवारोहत् ।

तौ यदापिबतामतृप्यतामथ हैनं तदेव रथचक्रेणापिधाय गोभिः प्रैताम् ।

सोऽकामयतोदित इयां गातुं नाथं विन्देयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स समिन्दुभिः इत्येव निधनमुपैत् ।

तं पर्जन्यो वृष्ट्योर्ध्वमुदप्लावयत् ।

अभि हि तद्र थचक्रमुत्प्लावयां चकार येनापिहित आस ।

तदेतद्गातुविन्नाथवित्साम ।

गातुं वै स तन्नाथमविन्दत ।

विन्दते गातुं य एवं वेद ।

स पदेनान्वैत् ।

तं प्रतिख्यायायन्तमृक्षोऽन्यो भूत्वा मर्कटोऽन्यो वनमवास्कन्दताम् ।

तदु भ्रातृव्यहा साम ।

भ्रातृव्यतां वाव तस्य तावगच्छतां यावृक्षं च मर्कटं चाकरोत् ।

अथो हास्मै वर्षुक एव पर्जन्यो भवति ।

तदु पशव्य साम ।

केवलान्वै स तान्पशूनकुरुत ।

अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।

यदु त्रित आप्त्योऽपश्यत्तस्मात्त्रैतमित्याख्यायते १८४