हारिवर्णं ब्रह्मसाम रक्षोगृहीतः कुर्वीत ।
आङ्गिरसस्स्वर्गं लोकं यत एभ्यो लोकेभ्यो रक्षांस्यन्वसचन्त ।
तेऽकामयन्ताप रक्षांसि हनीमहीति ।
स एतद्धरिवर्ण आङ्गिरसस्सामापश्यत् ।
तेनास्तुत ।
तेनैभ्यो लोकेभ्यो रक्षांस्यपाघ्नत ।
हरिश्रियमित्येवास्माल्लोकाद्विराजसि इत्यन्तरिक्षाद्दिवेदिवे इत्यमुष्मात् ।
ततो वै ते सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्यपहत्य स्वर्गं लोकमारोहन् ।
सर्वेभ्य एवैभ्यो लोकेभ्यो रक्षांस्यपहत्य स्वर्गं लोकमारोहति य एवं वेद ।
यदु हरिवर्ण आङ्गिरसोऽपश्यत्तस्माद्धारिवर्णमित्याख्यायते १८३