१७९

देवासुरा यज्ञेऽस्पर्धन्त ।

ते देवा असुरान्यज्ञान्निरवाघ्नन् ।

तेऽसुरास्त्रयाणां सवनानां रसं वीर्यं प्रवृह्यान्धं तमः प्राविशन् ।

यद्ध वै किं च पराचीनमग्निष्टोमात्तदन्धं तमः ।

यत्पराचीनं संवत्सरात्तदन्धं तमः ।

एतावान्वाव यज्ञो यावनग्निष्टोमः ।

एतावानु संवत्सरः ।

द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास्संवत्सरः ।

द्वादश स्तोत्राणि द्वादश शस्त्राणि ।

द्वादश पूर्वपक्षा द्वादशापरपक्षाः ।

अथ यत्ततः पराचीनं तदन्धं तमः ।

तत्प्राविशन् ।

ते देवा असुरानन्वभ्यवायन् ।

तानसुरानेतैरेवोक्थैः प्रत्युदतिष्ठन् ।

यदुक्थैः प्रत्युदतिष्ठंस्तदुक्थानामुक्थत्वम् ।

तांस्ततो निरेवावाघ्नन् ।

तेऽन्धमेव तमः प्राविशन्रात्रिमेव ।

स इन्द्रो ऽब्रवीत्कश्चाहं चेदमन्वभ्यवैष्याव इति १७९