१७८

तदाहुर्यज्ञायज्ञीयस्यैकादक्षरादूना ऋचः ।

तद्यज्ञस्य छिद्र म् ।

यत्तदुद्गायन्नापिदधाति यज्ञायज्ञीयं छिद्रं करोति ।

यज्ञायज्ञीयं छिद्र मनु यज्ञस्स्रवति यज्ञमनु यजमानो यजमानमनु प्रजाः ।

तस्मिन्वाचं दध्यात् ।

वाग्वै ब्रह्म ।

उत त्राता वाग्बहूना उ वा इति ।

गौरिति हैके दधति गौर्वै कृत्स्नमन्नाद्यं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै ।

तदाहुर्नैतदाद्रि येत ।

यद्वाव वाङ्निधनं भवति तेनैव सन्धीयत इति ।

तदाहुर्यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि ।

छन्दसां क्ळ्प्तिं विमुक्तिमनु प्रजाः कल्पान्ता इति ।

यज्ञो वो अग्नये इति षड्भिरक्षरैः प्रस्तौति ।

गिरा च दक्षसे इति षड्भिरक्षरैरादिमादत्ते ।

तद्द्वादश सम्पद्यन्ते ।

द्वादशाक्षरा जगती ।

जगतीं प्रथमतः पर्यूहन्ति ।

तज्जगत्या विमुच्यन्ते ।

प्र वयममृतं जातवेदसमित्येकादशाक्षराणि सम्पद्यन्ते ।

एकादशाक्षरा त्रिष्टुप् ।

तत्त्रिष्टुभा विमुच्यन्ते ।

प्रियं मित्रं नु शंसिषमित्यष्टाभिरक्षरैर्निधनमुपयन्ति ।

अष्टाक्षरा गायत्री ।

तद्गायत्र्या विमुच्यन्ते ।

तद्यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि यन्ति ।

छन्दसां क्ळ्प्तिं विमुक्तिमनु प्रजाः कल्पन्ते नापरामारी पूर्वी म्रियते १७८