१७६

तथा ह न रूक्षो भवति ।

एतद्ध स्म वै तत्पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद्शिंशुमार्यै व्यात्तमतिप्रोष्यत इति ।

एषा ह वा एकायने शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद्यज्ञायज्ञीयम् ।

तस्या एतदन्नाद्यमेव मुखतोऽपिधाय स्वस्त्यत्येति ।

पोप्रिं वयममृतं जातो वा इति ।

यत्प्र प्र वयमिति ब्रूयात्प्रमायुको यजमानस्स्यात् ।

अथ यत्पोप्रिमित्याहैष एवास्मै पोप्रिर्भवति ।

हिं मायि दायिवमिति ।

यद्दासमिति ब्रूयाद्दासुको यजमानस्स्यात् ।

अथ यद्दायिवमित्याह दिवं संस्तुतो यज्ञो गमयितव्य इत्याहुः दिवमेवैतत्संस्तुतं यज्ञं गमयन्ति ।

प्रियं मित्रं नु शंसिषमिति ।

यत्प्रियं मित्रं न शंसिषमिति ब्रूयान्न प्रियं मित्रं शंसेत ।

अथ यत्प्रियं मित्रं नु शंसिषमित्याह प्रियमेव मित्रं शंसते १७६