वयो वै योज्ञायज्ञीयम् ।
स यं कामयेत यजमानं स्वर्गलोकस्स्यादिति वयो यज्ञा वो अग्नये इत्यस्य प्रस्तुयात् ।
वय एवैनं शकुनो भूत्वा स्वर्गं लोकं वहति ।
तदु तदनायुष्यमिव ।
प्रमथितमिव वा एतद्यद्वयोऽनालयमिव ।
तस्मादेवं न प्रस्तुयात् ।
ओ यिरा यिरा चा दाक्षासा इति ।
यद्गिरा गिरा च इति ब्रूयादग्निर्वैश्वानरो यजमानं गिरेत् ।
अथ यदो यिरा यिरा चा दाक्षासा इत्याह अन्नं वा इरा अन्नाद्यमेव तदग्नेर्वैश्वानरस्य मुखतोऽपिदधाति ।
ईश्वरो ह तु रूक्षो भवितोर्यदो यिरा यिरा चा दाक्षासा इति ब्रूयात् ।
ओ यिरा इहा चा दाक्षासा इत्येव ब्रूयात् १७५