१७४

तां प्रतिसमीक्षेत वामी नाम सन्दृशि विश्वा वामानि धीमहि इति ।

प्रजा वै वामम् ।

प्रजामेव तदात्मन्धत्ते ।

वृष्णस्ते वृष्ण्यावतो विश्वारेतांसि धीमहि इतीतरा प्रतिसमीक्षते ।

तदाहुः प्रावृत उद्गायेदग्निर्वा एष वैश्वानरो यद्यज्ञायज्ञीयं तस्य शान्त्या अप्रदाहायेति ।

ईश्वरो ह तु पितृदेवत्यो भवितोर्यत्प्रावृत उद्गायेत् ।

अथो आहुर्यावदेव श्रोत्रं तावत्प्रावृत्योद्गायेदिति ।

तदु वा आहुः कर्णाभ्यां वै शृणोत्यक्षिभ्यां पश्यति ।

तस्मादात्मानमन्तरियाद्यत्प्रावृत उद्गायेत् ।

अथो आशिरं वै तृतीये सवनेऽवनयन्ति ।

प्रजा वै पशव आशीः ।

तस्मात्सर्वस्मादात्मानमन्तरियाद्यत्प्रावृत उद्गायेत् ।

अप्रावृत एवोद्गायेदिति १७४