१७३

यो वै यज्ञस्योधर्वेद प्रत्तं यज्ञं दुहे ।

यज्ञायज्ञीयं वाव यज्ञस्योधः ।

तस्यैते स्तना गायत्रं च रथन्तरं च बृहच्च वामदेव्यं च ।

तद्गायत्रमिव प्रस्तुयात् ।

रथन्तरस्येव स्तोभान्स्तोभेत् ।

बृहत इव रोहान्रोहेत् ।

हिङ्कारो वामदेव्यं स्वयमेव यज्ञायज्ञीयम् ।

एतद्वै यज्ञं यजमानो दुहे ।

स हेष्ट्वैव श्रेयान्भवति ।

यज्ञायज्ञा वो अग्नये इति भवति ।

एष ह वै यज्ञो यज्ञो यद्यज्ञायज्ञीयम् ।

यज्ञं यज्ञं वहतीति ह वै यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम् ।

एतेन ह स्म वै पुरा सर्वाणि स्तोत्राणि स्तुवन्ति ।

तदाहुरूर्ध्वा वा एते स्वर्गं लोकं रोहन्ति ये यजन्ते ।

त ईश्वराः पराञ्चोऽतिपत्तोरिति तद्यज्ञायज्ञीयेनोपरिष्टात्स्तुवन्ति ।

इयं वै यज्ञायज्ञीयम् ।

अस्यामेवैतत्प्रतितिष्ठन्ति ।

अप उपनिधाय स्तुवन्ति अग्निर्वा एष वैश्वानरो यद्यज्ञायज्ञीयं तस्य शान्त्या अप्रदाहाय ।

ऊरुभ्यां पत्न्युपप्रवर्तयति ।

अग्निमेव तद्वैश्वानरं शमयति ।

नग्नमिवोरुं कृत्वोपप्रवर्तयति ।

नग्नमिव ह्यूरुं कृत्वा पत्नी वीर्यं करोति ।

तां सङ्ख्यापयन्ति रेतोधेयाय ।

तदाहुरा वा एतत्पत्न्युद्गातुः प्रजां दत्ते यद्विगीते सामन्सङ्ख्यापयन्तीति १७३