दाशपत्यं श्रैष्ठ्यकामः कुर्वीत ।
देवासुरा अस्पर्धन्त ।
ते देवा इन्द्र मुपाधावंस्त्वयाधिपत्येदं जयामेति ।
स इन्द्रो ऽकामयत जयेमासुरानिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै देवा असुरानजयन् ।
तस्मै विजित्यासीनाय दशपतये दशपतय आ इत्येवोद्धारानुदहरन् ।
तदेव दाशस्पत्यस्य दाशस्पत्यत्वम् ।
उद्धारं हरत उद्धार्यो भवति य एवं वेद ।
विशोविशीयमन्नाद्यकामः कुर्वीत ।
अग्निर्वा अकामयत विशोविश एवान्नादश्श्रेष्टोःऽधिपतिस्स्यामिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स विशोविश एवान्नादश्श्रेष्ठोऽधिपतिरभवत् ।
तत एनं विशोविशो व्यवाहरन्त ।
तद्यदेनं विशोविशो व्यवहरन्ति तद्विशोविशीयस्य विशोविशीयत्वम् ।
स हैष विशोविश एवान्नादश्श्रेष्ठोऽधिपतिः ।
विशोविश एवान्नादश्श्रेष्ठोऽधिपतिर्भवति य एवं वेद ।
वारवन्तीयं पशुकामः कुर्वीत ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
तान्वारवन्तीयेनैवावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तद्यद्वारवन्तीयमग्निष्टोमसाम भवति पशूनामेवोपस्थित्यै पशूनामनपक्रमाय १७२