१६९

यज्ञायज्ञा वो अग्नये ।

तुरीयं वा एतत्साम्नः ।

सामन्नेवैतद्यज्ञं प्रतिष्ठापयन्ति ।

तनूर्वा एषा साम्नाम् ।

सतनून्येवैतद्साम्नानि कुर्वन्ति ।

यो ह वा एतस्मात्साम्न इयाद्दुश्चर्मा वा स्यात्पापी वैनं कीर्त्तिरभिवदेत् ।

गायत्री वा एषा वयो भूत्वोदेति ।

दिवमपतत् ।

अनुष्टुभि वा एतस्यै सते दिशश्शुल्कमहरन् ।

शुल्कहृता अस्मै प्रजा भवन्ति ।

दिग्भ्योऽस्मै शुल्को ह्रियते य एवं वेद ।

वयो यज्ञा वो अग्नये इति प्रस्तौति ।

ओ यिरा यिरा च दक्षसे पोप्रिं वयममृतं जातोवाहोयि विदोसमिति प्रतिहरति ।

यज्ञा इति द्वे अक्षरे गिरा इति द्वे पोप्रिमिति द्वे ।

तत्षट्सम्पद्यन्ते ।

षडक्षरस्तूष्णींशंसः ।

तूष्णींशंस एवैतदाग्निमारुते विमुच्यते ।

स ह्यन्तः ।

अग्निर्वैश्वानरः प्रजा अभ्युदतिष्ठत् ।

स इदं सर्वं प्रातपत् ।

तस्य देवाः प्रदाहादबिभयुः तेऽब्रुवन्सर्वं वा अयं इदं प्रधक्ष्यति १६९