१६८

अङ्गिरसां वै सत्त्रमासीनानां शर्करा अक्षिष्वजायन्त ।

तेऽकामयन्तानन्धास्स्याम प्रपश्येमेति ।

त एतं सौम्यं श्यामं चरुमक्षिष्वादधत ।

तमेतेन मन्त्रेणादधत

येन ह्याजिमजयन्नृचक्षा येन श्येनं शकुनं सुपर्णम्

यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु

इति ।

ततो वै तेऽनन्धा अभवन्प्रापश्यन् ।

अनन्धो हैव भवति प्रपश्यति य एवं वेद ।

तदाहुः प्राश्या३न प्राश्या३इति स योऽनूचानस्सन्नयश ऋतस्स्यात्स हि तं प्राश्नीयात् ।

अनूचाना इह वा अलं यशसे ।

स योऽनूचानस्सन्नयश ऋतो भवति अमुं ह वै तस्य लोकं यशो गतं भवति तदेतेन पुनराह्रियते यदेतं सौम्यं श्यामं चरुं प्राश्नाति ।

तदु होवाच शाट्यायनिर्नैवैष प्राश्यः कस्ततो यश आहरेद्यत्र भूयसी रात्री वत्स्यन्स्यादिति ।

तस्मादु हैतन्नैव प्राश्नीयात् १६८