१६७

प्रजापतिर्ह खलु वा एष यस्संवत्सरः ।

स ह षण्मासोऽन्यतरमन्यतरं पादमुद्ग्राहं तिष्ठति ।

स यदोष्णमुद्गृह्णात्यथ हेदमुपर्युष्णो भवत्यध उ ह तदा शीतो भवति ।

तस्माद्ग्रीष्म उपर्युष्णोऽधश्शीतमधिगम्यते ।

तस्मादु ग्रीष्मे शीताः कूप्या अप उदाहरन्ति ।

अथ यदा शीतमुद्गृह्णात्यथ हेदमुपरि शीतो भवत्यध उ ह तदोष्णो भवति ।

तस्माद्धेमन्नुपरि शीतोऽध उष्णमधिगम्यते ।

तस्मादु हेमन्नुष्णाः कूप्या अप उदाहरन्ति ।

एवं ह वा एष प्रजापतिस्संवत्सरः प्रजा बिभर्ति ।

अथ ह वा एतं सौम्यं चरुमाहरन्ति ।

यद्ध वा उद्गातुर्यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते यमलोकं ह वा अस्य तद्गच्छति ।

तद्धापि मृतोदीरिण आहुर्यमस्यैतत्सभायामपश्याम इति ।

तदेतेन पुनराह्रियते यदेतं सौम्यं चरुमाहरन्ति ।

तं हावेक्षेत

यन्मे मनो यमं गतं यद्वा मे अपरागतम्

राज्ञा सोमेन तद्वयं पुनरस्मासु दध्मसि

मनसि मे चक्षुरधाश्चक्षुषि मे मनः

आयुष्मत्या ऋचो माच्छैत्सि । मा साम्नो भागधेयाद्वियोषम्

इति ।

तद्धापि छायां पर्यवेक्षेतात्मनोऽप्रणाशाय ।

अथो सर्पिषोऽक्ष्योरादधीत चक्षूष आप्यायनाय ।

तदपि विज्ञानमसद् ।

य आत्मानं न परिपश्येदपेतासुः स स्यात् ।

तस्मात्सत्यादप्याज्यं भूय आनीय पर्येवात्मानं दिदृक्षेत सर्वस्यायुषोऽवरुद्ध्यै १६७