१६६

अथैता भवन्ति अभि प्रियाणि पवते चनोहितः इति ।

प्रजापतिः प्रजा असृजत ।

ता अप्राणा असृजत ।

ताभ्य एताभिरेवर्ग्भिः प्राणानदधात् ।

अभि प्रियाणि पवते चनोहितः इति ।

प्रजा वै प्रियम् ।

ता अभि इत्येव प्राणेनाभ्यपवत ।

नामानि यह्वो अधि येषु वर्धते इति ।

महा वै प्रजा नामानि ।

आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः इति ।

प्राणो वै विष्वङ् ।

सोऽयं विष्वञ्चति ।

ता एता आयुष्या ऋचः ।

सर्वमायुरेत्येताभिर्तुष्टुवानः

तासु कावम् ।

कविर्वै भार्गवो देवेष्वमर्त्यं गन्धर्वलोकमैच्छत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स देवेष्वमर्त्यं गन्धर्वलोकमाश्नुत ।

तदेतल्लोकवित्साम ।

अश्नुते देवेष्वमर्त्यं गन्धर्वलोकमेतेन तुष्टुवानः ।

यदु कविर्भार्गवोऽपश्यत्तस्मात्कावमित्याख्यायते ।

तत्स्वारं भवति ।

स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते ।

ऋक्समं पवमानान्ते भवति ।

नर्चा सामातिरेचयन्ति नर्चं साम्ना ।

तद्यदिहेव चेहेव च पवमने न स्तुवन्ति एतस्यैव समतायै समं कॢप्त्यै ।

पदानुस्वारं पुरस्ताद्गायत्रं भवति पदानुस्वारमुपरिष्टात्पवमानान्ते ।

तस्मादुभयतःप्राणाः प्रजा ऊर्ध्वाश्चावाचीश्च ।

यां ह खलु वै पितापुत्रौ नावमजतो न स रिष्यति ।

दैव्येषा नौर्यद्यज्ञः ।

तावेतत्पितापुत्रावेवाजतः ।

औशनं पुरस्ताद्भवति कावमुपरिष्टाद्यज्ञस्यैवारिष्ट्यै ।

तस्माद्यदाशु नावमधिरोहन्ति पितापुत्रौ हैवाग्रेऽधिरोहतः ।

पञ्चैतानि छन्दांस्यार्भवे पवमाने भवन्ति सप्त सामानि ।

तद्द्वादश सम्पद्यन्ते ।

द्वादश मासास्संवत्सरः ।

पञ्चो वा एवामूनि सामानि माध्यन्दिने पवमाने भवन्ति ।

ऋतव एव ।

मासा एवार्भवे पवमाने कल्पन्त ऋतवो माध्यन्दिने ।

स हैष संवत्सर एव व्यूढो यद्यज्ञः १६६