अथान्धीगवम् ।
मध्येनिधनं भवति प्रतिष्ठायै ।
समुद्रं वा एतेऽनारम्भणं प्रप्लवन्ते य आर्भवं पवमानमुपयन्ति ।
तद्यन्मध्येनिधनं भवति प्रतिष्ठित्या एव ।
तद्यथा वा अदस्समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्नास्त एवं ह वा एतन्निधनमुपेत्य कामं विश्राम्यन्त आसीरन्नस्तुवानाः ।
तदैळं भवति ।
पशवो वा इळा पशवः कृत्स्नमन्नाद्यम् ।
यो वा अनवसोऽध्वानं प्रैति नैनं स समश्नुते ।
अथ यस्सावसः प्रैति स एवैनं समश्नुते ।
अयं वाव समुद्रो ऽनारम्भणो यदिदमन्तरिक्षम् ।
तस्य नानवसेनेत्थं गतिरस्ति नेत्थम् ।
तदेतत्पशूनेव कृत्स्नमन्नाद्यमवसं कृत्वा यन्ति ।
शाक्त्या अन्नाद्यकामा अदीक्षन्त ।
स एतदन्धीगुश्शाक्त्यस्सामापश्यत् ।
तेनास्तुत ।
तस्यैतां दशाक्षरां विराजं मध्यत उपैत् ।
दशाक्षरा विराडन्नं विराट् ।
ततो वै ते विराजमन्नाद्यमवारुन्धत ।
तदेतद्विराजोऽन्नाद्यस्यावरुद्धिस्साम ।
अव विराजमन्नद्यं रुन्द्धेऽन्नादश्श्रेष्ठस्स्वानां भवति य एवं वेद ।
यद्वन्धीगुश्शाक्त्योऽपश्यत्तस्मादान्धीगवमित्याख्यायते १६५