१६४

पुरोजिती वो अन्धस एहिया ।

सूताय मादयित्नवा एहिया ।

आप श्वानं श्नाथीष्टाना ।

षहोवा एहिया इत्येव मरुतस्स्वर्गे लोक उपाह्वयन्त ।

ततो वै स प्रतिसत्त्रिभिस्समगच्छत ।

स हैष मरुद्भिरेव सह श्यावाश्वः ।

तदेतत्स्वर्ग्यं साम ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

यदु श्यावाश्व आर्चनानसोऽपश्यत्तस्माच्छ्यावाश्वमित्याख्यायते ।

इन्द्रो वै तृतीयसवनाद्बीभत्समान उदक्रामत् ।

धीतमिव ह्यासीत् ।

तमेतेन विश्वे देवास्साम्नान्वह्वयन्त ओहोइया इति ।

ततो वा इन्द्र स्तृतीयसवनमुपावर्तत ।

ततोऽस्मादनपक्रम्यभवत् ।

तदेतत्सेन्द्रं साम ।

सेन्द्रो हास्य सदेवो यज्ञो भवति ।

अभ्यस्येन्द्रो यज्ञमावर्तते नास्येन्द्रो यज्ञादपक्रामति य एवं वेद ।

तत्स्वारं भवति ।

प्राणो वै स्वरः ।

वीव वा एते प्राणैरृध्यन्ते ये यज्ञीयस्य कर्मणोऽतिपादयन्ति यदि वा नातिपादयन्ति ।

को हि तद्वेद यदि तेऽति वा पादयन्ति न वा ।

तद्यत्स्वारं भवति प्राणैरेव तत्समृध्यन्ते १६४