१६३

तानि हास्यै दर्शयां चकार ।

तानि हास्यै छन्दयां चक्रुः ।

सा वा एहीति होवाच ।

को नामासीति ।

सुमित्रो नामेति ।

कल्याणं वै ते नामेति ।

तौ ह सन्निपेदाते ।

तस्यां ह यदार्थं चक्रेऽथ हैनां तदेवाभिसञ्जग्राह ।

सा होवाच नन्वरे त्वं सुमित्रोऽवोचथा इति ।

स होवाच सुमित्रो एवाह सुमित्रायास्मि दुर्मित्रो दुर्मित्रायेति ।

स एतानि सौमित्राणि सामान्यपश्यत् ।

तैरस्तुत ।

तैरिन्द्र माह्वयत् ।

स इन्द्र एतामनुष्टुभं वज्रमुद्यत्याद्र वत्पुरोजिती वो अन्धसस्सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियमित्येवास्यै प्राहन् ।

ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः ।

हन्ति द्विषन्तं भ्रातृव्यमप रक्षः पाप्मानं हत एताभिरृग्भिस्तुष्टुवानः ।

यो धारया पावकया परिप्रस्यन्दते सुतः । इन्दुरश्वो न कृत्वियः ।

तं दुरोषमभी नरस्सोमं विश्वाच्या धिया । यज्ञाय सन्त्वद्र यः इति ।

पूर्वयोरेवैष सवनयोरभिसङ्क्रमः ।

तासु श्यावाश्वम् ।

श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकमायन् ।

सोऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्त्रिभिस्सङ्गच्छेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत १६३