१६२

अथ ह सुमित्रः कौत्सो दर्शनीय आस ।

स तं होवाच सुमित्र दर्शनीयो वा असि ।

सुलापा वै दर्शनीयेन स्त्रियः ।

इमां दीर्घजिह्वीं लिलापयिषस्वेति ।

तां हेत्योवाच दीर्घजिह्वि कामयस्व मेति ।

सा होवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्सम्पद्यत इति ।

स ह पुनरेत्योवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्सम्पद्यत इति वै माम इयमाहेति ।

अङ्गेऽङ्गे वा अहं तव शेपांसि करोमीति होवाच ।

तानि हाभिप्रावृत्येयाय ।

तां होवाच दीर्घजिह्वि कामयस्व मेति ।

सा होवाचैकं तव शेपोऽङ्गेऽङ्गे मम मुष्का न वै तत्सम्पद्यत इति ।

अङ्गेऽङ्गे वाव मम शेपांसीति होवाच ।

अङ्ग ते पश्यानीति १६२