यद्यथापूर्वं छन्दांस्युपेयुरनुष्टुभ उत्तमाः कुर्युः ।
वाग्वा अनुष्टुप् ।
तां वै यज्ञाद्बहिर्धा कुर्युः ।
तामेवैतद्यज्ञस्य मध्यत आभजन्ति ।
ता एता भवन्ति पुरोजिती वो अन्धसः इति ।
पुरस्ताद्ध वा एताः पाप्मानं जयन्तीः पुरस्तात्पाप्मानमपघ्नत्यो यन्ति ।
जितं ह वा एताभिर्विजितमन्ववस्यन्ति ।
सुताय मादयित्नवे । अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियमिति ।
दीर्घजिह्वी ह वा असुर्यास ।
सा ह स्म सोमंसोममवलेढि ।
उत्तरे ह समुद्र आस ।
स यो ह स्म दक्षिणे समुद्रे सूयते यः पूर्वे योऽपरे तं ह स्म तत एवालेढि ।
तां हेन्द्रो जिघृक्षन्न शशाक गृहीतुम् ।
स होवाच मा कश्चन यष्टेयं वै दीर्घजिह्वी सोमंसोममेवावलेढीति १६१