तासु सभं यज्ञस्यैव सभतायै ।
यद्ध वै किं च यज्ञस्य दुःष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतत्सभतायै ।
सभमविभमसदिति ह वा एतेन स्तुवन्ति ।
साभं ह वा एतन्नाम ।
सभेन वै देवा असुराणां तेजो बलमिन्द्रि यं वीर्यं पशूनन्नाद्यं सभेन सभमात्मानमध्यकुर्वत ।
तत्सभस्य सभत्वम् ।
सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलमिन्द्रि यं वीर्यं पशूनन्नाद्यं सभेन सभमात्मानमधिकुरुते य एवं वेद ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽकामयत न मत्पशवोऽपक्रामेयुरभि मावर्तेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै तं पशवोऽभ्यावर्तन्त ततोऽस्मादनपक्रामिणोऽभवन् ।
सोऽब्रवीद्सभो वै पशुभिरभूवमिति ।
तद्वेव सभस्य सभत्वम् ।
सभो हाविभः पशुभिर्भवति य एवं वेद ।
तदु काकुभं स्वारं भवति ।
प्राणो वै स्वरः पुरुषच्छन्दसं ककुप् ।
ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः ।
ज्यैष्ठ्येनैव तज्ज्यैष्ठ्यं सन्दधति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठन्ति ।
अथो यजमानमेव तत्प्राणेन समर्धयन्ति ।
समस्मा ऋध्यते य एवं वेद ।
तानेकरूपान्न व्यजानात् ।
स एतत्पौष्कलं सामापश्यत् ।
तेनैषां रूपाणि व्यकरोत् ।
ते नानारूपा अभवञ्श्वेतो रोहितः कृष्णः ।
एकरूपा ह वाव ते ततः पुरासू रोहिता एव ।
बहुरूपान्नानारूपान्पशूनवरुन्द्धे बहुपशुर्भवति य एवं वेद ।
अथ पौष्कलम् ।
पुष्कल आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु पुष्कल आङ्गिरसोऽपश्यत्तस्मात्पौष्कलमित्याख्यायते ।
तच्चतुरक्षरणिधनं भवति ।
चतुष्पदा वै पशवः ।
पशव इव उष्णिक् ।
अभि पूर्वाणामेव पशूनामवरुद्ध्यै १६०