अथो हैतदवच्छिन्नमिव वै माध्यन्दिनात्सवनात्तृतीयसवनम् ।
ते देवा एतद्व्यवेक्ष्याविदुरवच्छिन्नमिव वा इदं माध्यन्दिनात्तृतीयसवनमिति ।
त एतत्सामापश्यन् ।
तेनैतत्समदधुः ।
यत्समदधुस्तद्वेव संहितस्य संहितत्वम् ।
संहितं हास्यैतत्तृतीयसवनमनवच्छिन्नं भवति य एवं वेद ।
अथोष्णिक्ककुभौ । उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रमुदयच्छद्गायत्र्योस्तिष्ठन् ।
ते एनं नोदयच्छताम् ।
तयोश्चतुष्पदः पशूनुपादधाद्गां चाश्वं चाजां चाविं च ।
ते एनमुदयच्छताम् ।
स उष्णिक्ककुभोस्तिष्ठन्सभपौष्कले बाहू कृत्वा प्राहरत् ।
तमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद १५८