अथ संहितं द्व्यक्सरणिधनं प्रतिष्ठायै ।
द्विपाद्वै यजमानः प्रतिष्ठित्यै ।
देवासुरा अस्पर्धन्त ।
तेऽब्रुवन्यन्न इदमुभयं धनं तत्सन्निदधामहै ।
तेषां नो यतरे जयन्ति तेषां न एतदुभयं धनं संहितमस्त्विति ।
तद्यदेषामुभयं धनमासीत्तत्सन्न्यदधत ।
ते देवा अकामयन्तोभयमिदं धनं संहितं जयेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनोभयं धनं संहितमजयन् ।
तद्यदुभयं धनं संहितमजयंस्तत्संहितस्य संहितत्वम् ।
उभयमेव संहितं द्विषन्तं भ्रातृव्यं जयति य एवं वेद ।
तदु होवाचारुणिरश्वो वाव स संहित आसीत् ।
तस्मिन्नेवैषां तद्धनं संहितमासीत्तमेव तदसुराणामवृञ्जत प्रजापतिं वावैषां तदवृञ्जतेति ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १५७