१५५

नेत्यब्रुवन् ।

साधुविभक्ता नो लोकास्तान्न शक्ष्यामस्संलोभयितुमिति ।

तेऽब्रुवन्यद्वयमिह स्वयं पश्यामस्तदस्माकमस्त्विति ।

तेभ्य एताः कलिन्दाः प्रायच्छन्नेतासु श्राम्यतेति ।

तद्यत्कलिभ्यः कलिन्दाः प्रायच्छंस्तत्कलिन्दानां कलिन्दत्वम् ।

स एतत्कलिर्वैतदन्यस्सामापश्यत् ।

तेनास्तुत ।

तेनेममवान्तरदेशं दुर्यन्तं लोकमपश्यत् ।

तमजयत् ।

तदेतल्लोकवित्साम ।

विन्दते लोकमेतेन तुष्टुवानः ।

गन्धर्वलोकतां ह त्वाव नातिजयति गन्धर्वलोकतामिवैव जयति ।

यदु कलिर्वैतदन्योऽपश्यत्तस्मात्कालेयमित्याख्यायते ।

देवा वै पूर्वाभ्यां सवनाभ्यां तृतीयसवनं प्रवृह्य स्वर्गं लोकमायन् ।

त इमे लोका व्यवृह्यन्त वि यज्ञोऽवृह्यत ।

ते देवा अकामयन्त समिमाल्ँ लोकान्दध्याम सं यज्ञं दध्यामेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

तेनेमाल्ँ लोकान्समदधुस्सं यज्ञमदधुः ।

तद्यदिमाल्ँ लोकान्समदधुस्तद्वा अस्य स्वर्ग्यम् ।

तेन गन्धर्वलोकतामतिजयति ।

तरो वै यज्ञस्स्तोमो विदद्वसुः ।

यज्ञेन च वाव ते तत्स्तोमेन चेमाल्ँ लोकान्समदधुस्सं यज्ञमदधुः ।

यज्ञेन चैवास्य स्तोमेन च यज्ञस्संहितो भवतीमे च लोका य एवं वेद ।

सोमो ह खलु वै राजा कालेयम् ।

सदेवो हास्य यज्ञो भवति ।

यथा ह वा इदं बद्धवत्सा हिङ्करी तुरीयत्येवं ह वाव तमिन्द्र स्सोममागच्छति यस्मिन्कालेयेन स्तुवन्ति ।

तस्मादु हैतस्मात्साम्नो नैव कदा चनेयात्सेन्द्रो मे सदेवो यज्ञोऽसदिति ।

सेन्द्र मेवैतेन सदेवं यज्ञं कुरुते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेव तत्प्रतितिष्ठति १५५