ऋचा वा असुरा आयन्साम्ना देवाः ।
ते देवा असुरानृच्येव निगृह्य साम्नापीडयन्नेवं पीड्यं द्विषतो भ्रातृव्यस्य वधाय ।
इन्द्रं सबाध ऊताय इ बृहद्गायन्तस्सुतसोमे अध्वारा इति ।
ध्वारा इति रथन्तरसाम्नः धोरो इति बृहत्साम्नः ।
उभे ह वा एते एतदनु ।
तस्मादुभे रूपे गायेद्यच्च राथन्तरं यच्च बार्हतम् ।
नाना वा एतयोर्ब्रह्मसामनी भवतः ।
अथैतदुभे अनु ।
तस्मादुभे एव रूपे गायेत् ।
तदैळं भवति ।
पशवो वा इळा ।
पशुभिर्वाव ते तानकालयन्त ।
तस्माद्यत्पशुमांश्चापशुश्च भ्रातृव्यौ स्पर्धेते य एव पशुमान्भवति स एव तयोरभिभवति ।
एतद्ध वै साम प्रजा इमा अनुव्यास ।
ते तस्यैतां निततामिळामन्तत उपयन्ति प्रजानां यथायतनादनुद्घाताय ।
तस्मात्प्रजा यथायतनादनुद्धताः ।
देवाः पितरो मनुष्यास्तेऽन्यत आसन्नसुरा रक्षांसि पिशाचा अन्यतः ।
त एषु लोकेष्वस्पर्धन्त ।
अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर्नेतरान्नेतरानाद्रि यमाणाः ।
ते देवाः पितरो मनुष्या असुरान्रक्षांसि पिशाचानभ्यभवन् ।
त इमाल्ँ लोकान्व्यभजन्त देवलोकमेव देवा अभजन्त पितृलोकं पितरो मनुष्यलोकं मनुष्याः ।
तान्कलयो गन्धर्वा एत्याब्रुवन्ननु न एषु लोकेष्वाभजतेति ।
नेत्यब्रुवन् ।
अनाद्रि यमाणा वै यूयमचारिष्ट नेतरान्नेतरानाद्रि यमाणा इति ।
अथ वै वो मनसान्वाविष्महीत्यब्रुवन्नन्वेव न आभजतेति १५४